वांछित मन्त्र चुनें
आर्चिक को चुनें

क्र꣡त्वा꣢ म꣣हा꣡ꣳ अ꣢नुष्व꣣धं꣢ भी꣣म꣡ आ वा꣢꣯वृते꣣ श꣡वः꣢ । श्रि꣣य꣢ ऋ꣣ष्व꣡ उ꣢पा꣣क꣢यो꣣र्नि꣢ शि꣣प्री꣡ हरि꣢꣯वान् दधे꣣ ह꣡स्त꣢यो꣣र्व꣡ज्र꣢माय꣣स꣢म् ॥४२३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

क्रत्वा महाꣳ अनुष्वधं भीम आ वावृते शवः । श्रिय ऋष्व उपाकयोर्नि शिप्री हरिवान् दधे हस्तयोर्वज्रमायसम् ॥४२३॥

मन्त्र उच्चारण
पद पाठ

क्र꣡त्वा꣢꣯ । म꣣हा꣢न् । अ꣣नुष्वध꣢म् । अ꣣नु । स्वध꣢म् । भी꣣मः꣢ । आ । वा꣣वृते । श꣡वः꣢꣯ । श्रि꣣ये꣢ । ऋ꣣ष्वः꣢ । उ꣣पाक꣡योः꣢ । नि । शि꣣प्री꣢ । ह꣡रि꣢꣯वान् । द꣣धे । ह꣡स्त꣢꣯योः । व꣡ज्र꣢꣯म् । आ꣣यस꣢म् ॥४२३॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 423 | (कौथोम) 5 » 1 » 4 » 5 | (रानायाणीय) 4 » 8 » 5


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में इन्द्र नाम से परमात्मा और सेनापति का कर्म वर्णित है।

पदार्थान्वयभाषाः -

प्रथम—परमात्मा के पक्ष में। (क्रत्वा) दिव्य प्रज्ञा और जगत् के धारण आदि कर्म से (महान्) महान्, (भीमः) नियम तोड़नेवालों के लिए भयंकर वह इन्द्र परमेश्वर (अनु स्वधम्) अपनी धारणशक्ति के अनुरूप (शवः) बलवान् सूर्य, चन्द्र, पृथिवी आदि को (आ वावृते) घुमा रहा है। (ऋष्वः) लोकलोकान्तरों को अपनी-अपनी कक्षाओं में गति करानेवाला, (शिप्री) जगत् का विस्तारक, (हरिवान्) अकर्मण्यता आदि दोषों को हरने के सामर्थ्यवाला वह (श्रिये) ऐश्वर्यप्रदानार्थ (उपाकयोः) परस्पर सम्बद्ध (हस्तयोः) मनुष्य के हाथों में (आयसम्) दृढ (वज्रम्) शस्त्रास्त्रसमूह को (आ दधे) थमाता है ॥ द्वितीय—सेनापति के पक्ष में। (क्रत्वा) शत्रुवध आदि कर्म से (महान्) महान्, (भीमः) दुष्टों के लिए भयंकर इन्द्र अर्थात् वीर सेनापति (अनुस्वधम्) पौष्टिक अन्न के भक्षण के अनुरूप, अपने शरीर में (शवः) बल (आ वावृते) उत्पन्न करता है। (ऋष्वः) गतिमान्, कर्मण्य, (शिप्री) शत्रुओं में आक्रोश या हाहाकार पैदा करनेवाला, (हरिवान्) प्रशस्त घोड़ों अथवा हरणसाधन विमानादि यानोंवाला वह (श्रिये) विजयश्री प्राप्त करने के लिए (उपाकयोः) निकट पहुँचे शत्रुदलों के ऊपर प्रहारार्थ (हस्तयोः) हाथों में (आयसम्) लोहे के बने, अथवा लोहे जैसे दृढ (वज्रम्) शस्त्रास्त्रसमूह को (नि दधे) धारण करता है ॥५॥ इस मन्त्र में श्लेषालङ्कार है ॥५॥

भावार्थभाषाः -

जैसे परमेश्वर अकर्मण्य लोगों के भी हृदय में वीरता का सञ्चार करके उनके हाथों में शस्त्रास्त्र ग्रहण करा देता है, वैसे ही सेनापति अपने हाथों में शत्रु का वध करने में समर्थ दृढ़ शस्त्रास्त्रों को धारण कर, शत्रुओं पर प्रहार करके उन्हें पराजित करे ॥५॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथेन्द्रनाम्ना परमात्मनः सेनापतेश्च कर्म वर्णयति।

पदार्थान्वयभाषाः -

प्रथमः—परमात्मपरः। (क्रत्वा) दिव्यप्रज्ञया जगद्धारणादिकर्मणा च (महान्) महिमवान्, (भीमः) नियमभञ्जकेभ्यो भयङ्करः स इन्द्रः परमेश्वरः (अनुस्वधम्) स्वधारणशक्त्यनुरूपम् (शवः) बलवत् सूर्यचन्द्रपृथिव्यादिकम्। शवः शवस्वत्। अत्र मतुपो लुक्। यद्वा बलवाचिनः शवस् शब्दस्य तद्वति लक्षणा। (आ वावृते) आवर्तयति। वृतु वर्तने, णिजर्थगर्भः। लडर्थे लिट्। ‘तुजादीनां दीर्घोऽभ्यासस्य। अ० ६।१।७’ इत्यभ्यासदीर्घः। (ऋष्वः) लोकलोकान्तराणां स्वस्वकक्षासु गमयिता। ऋषी गतौ धातोर्बाहुलकाद् औणादिको व प्रत्ययः। (शिप्री२) सृप्री जगद्विस्तारयिता, (हरिवान्) दोषहरणसामर्थ्योपेतः सः (श्रिये) ऐश्वर्यप्रदानाय (उपाकयोः३) समीपस्थयोः परस्परसंबद्धयोः (हस्तयोः) मनुष्यस्य करयोः (आयसम्) दृढम् (वज्रम्) शस्त्रास्त्रसमूहम् (नि दधे) स्थापयति ॥ अत्र जगत्सञ्चालके देवे ‘भीमः’ इति विशेषणम् ‘भयादस्याग्निस्तपति भयात्तपति सूर्यः। भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः। कठ० ६।२’, इत्याद्यर्थकमनुसन्धेयम् ॥ अथ द्वितीयः—सेनापतिपरः। (क्रत्वा) क्रतुना वृत्रवधादिकर्मणा (महान्) महिमोपेतः, (भामः) दुष्टानां भयङ्करः इन्द्रः वीरः सेनापतिः (अनुस्वधम्) पौष्टिकान्नभक्षणानुरूपम्। स्वधा इत्यन्ननाम। निघं० २।७। स्वशरीरे (शवः) बलम् (आ आवृते) आपादयति। (ऋष्वः) गतिमान् कर्मण्यः, (शिप्री४) शत्रुषु आकोशजनकः, (हरिवान्) प्रशस्ता हरयः यस्य तथाविधः सः (श्रिये) विजयश्रियमधिगन्तुम् (उपाकयोः) उपक्रान्तयोः शत्रुसैन्ययोरुपरि प्रहरणार्थम् (हस्तयोः) करयोः (आयसम्) लौहं, लोहवद् दृढं वा (वज्रम्) शस्त्रास्त्रसमूहम् (नि दधे) निधत्ते ॥५॥५ अत्र श्लेषालङ्कारः ॥५॥

भावार्थभाषाः -

यथा परमेश्वरो निष्कर्मणामपि हृदये वीरतां सञ्चार्य तेषां हस्तयोः शस्त्रास्त्राणि निधत्ते, तथा सेनापतिः स्वहस्तयोः शत्रुवधसमर्थानि दृढानि शस्त्रास्त्राणि गृहीत्वा शत्रुषु प्रहृत्य तान् पराजयेत ॥५॥

टिप्पणी: १. ऋ० १।८१।४, ‘वावृते’ इत्यत्र ‘वावृधे’ इति पाठः। २. शिप्र शब्दः सर्पणार्थात् सृप धातोर्यास्केन निष्पादितः। सृप्रः सर्पणात्। सुशिप्रमेतेन व्याख्यातम् (निरु० ६।१७) इति। ३. उपाकयोः समीपवर्तिन्योः द्यावापृथिव्योः—इति भ०। उपाके इत्यन्तिकनामसु पठितम्। निघं० २।१६। ४. शत्रूणाम् आक्रोशयिता इति ऋग्भाष्ये द०। शप आक्रोशे। ५. ऋग्भाष्ये दयानन्दर्षिर्ऋचमिमां सेनापतिविषये व्याख्यातवान्—“मनुष्यैर्यो बुद्धिमान् महोत्तमगुणविशिष्टः शत्रूणां भयंकरः सेनाशिक्षकोऽतियोद्धा वर्तते तं सेनापतिं कृत्वा धर्मेण राज्यं प्रशासनीयम्” इति।